Sanskritbhashi
421 FOLLOWERS
Author of Sanskrit speaking blog, planner for Sanskrit propagation, interest in Sanskrit digitization, expertise in Sanskrit library management.
Sanskritbhashi
1M ago
तदेव गगनं सैव धरा
तदेव गगनं सैव धरा
जीवनगतिरनुदिनमपरा
तदेव गगनं सैव धरा।।
पापपुण्यविधुरा धरणीयं
कर्मफलं भवतादरणीयम्।
नैतद्-वचोऽधुना रमणीयं
तथापि सदसद्-विवेचनीयम्।।
मतिरतिविकला
सीदति विफला
सकला परम्परा। तदेव....
शास्त्रगता परिभाषाऽधीता
गीतामृतकणिकापि निपीता ।
को जानीते तथापि भीता
केन हेतुना विलपति सीता ।।
सुतरां शिथिला
सहते मिथिला
परिकम्पितान्तरा । तदेव.......
  ..read more
Sanskritbhashi
1M ago
पुण्यपुरात्पञ्चक्रोषादूरस्थायां ग्रामटिकायामेकस्यां न कोऽपि प्रायेण वृत्तपत्रमपठत्। अतो भूयिष्ठा ग्रामवासिनः स्वग्रामाद्वहिर्वर्तमानस्य वृत्तस्यानभिज्ञा आसन्। परमभूदपि काचित्कुलाङ्गना स्वग्रामवृत्तमप्यजानती खलु सुनीतिनाम्नी। क्वचित्पठितत्यक्तायाः केसरीनामपत्रिकायाः केनापि प्रेषितायाः प्रतिलेखाः सुहृत्कश्चिद्रामदासाभिधस्तस्या उपकर्तुमुच्चस्वरेण पठति स्म। परं वृत्तजातमिदं व्यतीतनैकसप्ताहमनवमेवासीत् ।
  ..read more
Sanskritbhashi
1M ago
अनुक्रमणिका
१ मंगलाचरणम्
२ प्रातरुत्थानम्
३ भूमिस्पर्शः
४ प्रातः स्मरणम्
५ मूत्रपुरीषोत्सर्गविधिः
६ दन्तधावनविधिः (नद्यादौ नित्यस्नानप्रयोगः टिप्पण्याम् )
७ गृहे प्रातःस्नानप्रयोगः
८ गौणस्नानानि
९ आशौचे कर्मादित्याग- विचारः
१० प्रातःसन्ध्याप्रयोगः ||
शिवपंचायतनपूजनप्रयोगः ॥
११ देवस्पर्शेऽनधिकारिणः
१२ देवार्चनकालः
१३ देवप्रतिमायां नित्यस्नान- विचारः
१४ मध्याह्ने भुक्तस्यापि रात्रौ पंचोपचारपूजाप्रकारः
१५ गृहे देवताप्रतिमाविचारः
१६ देवप्रतिमाप्रतिष्ठाविचारः
१७ पंचायतनदेवताः
१८ पंचायतनदेवतास्थापन- प्रकार:
१९. शिवपंचायतनपूजाप्रयोगः
।। अथ रुद्राभिषेकप्रयोगः ।।
२० रुद्राभिषेकप्रकाराः
२१ रुद्राभिषेकप् ..read more
Sanskritbhashi
3M ago
शिक्षा, कल्प, निरुक्त, व्याकरण, छन्दः एवं ज्योतिष ये छः वेदाङ्ग हैं। वेदाङ्गों में सर्वाधिक उपयोगिता की दृष्टि से शिक्षा का प्रथम स्थान है। पाणिनि ने शिक्षा को घ्राण (नासिका) कहा है। "शिक्षा घ्राणं तु वेदस्य ।" यह वर्णोच्चारण-विज्ञान का प्रतिपादक है। जिस तरह प्राण के बिना जीवन का अस्तित्व संभव नहीं है उसी तरह शिक्षा के बिना अर्थात् शुद्धोच्चारण- निर्धारण के बिना वेद की सुरक्षा हो नहीं सकती। शिक्षा वह विद्या है, जो स्वर, वर्ण आदि के उच्चारण का निर्धारण करती है। स्वरवर्णाद्युच्चारणप्रकारो यया विद्यया शिक्ष्यते उपदिश्यते सा विद्या शिक्षा कथ्यते (ऋग्वेदभाष्य-भूमिका पृ०49 ..read more
Sanskritbhashi
3M ago
पुनरपि भव्या भवति अयोध्या
पुनरपि भव्या भवति अयोध्या
राममन्दिरं भव्यतरम्।
जगज्जननी सीताऽऽयाति
पश्य तया सह रामवरम्॥
भव्यमन्दिरे रामदर्शनं
रामदर्शनं कणे-कणे।
छिन्नं सर्वं जगद्बन्धनं
रामस्मरणं क्षणे-क्षणे॥
तस्य लीलया सकलं भुवनं
सृष्टिः सर्वा तस्य कला।
जयतु अयोध्या नगरी भव्या
जयतु जयतु श्रीरामलला॥
  ..read more
Sanskritbhashi
4M ago
वाल्मीकि
कवीन्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम्।
चन्द्रिकामिव चिन्वन्ति चकोरा इव कोविदाः ।।
वाल्मीकिकविसिंहस्य कवितावनचारिणः।
शृण्वन् राम-कथा-नादं को न याति परां गतिम् ।।
कूजन्तं रामरामेति मधुरं मधुराक्षरम्।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ।।
व्यास
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्।।
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥
नमः सर्वविदे तस्मै व्यासाय कविवेधसे।
चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ।।
  ..read more